श्री शनैश्चर सहस्रनाम वली | Shani Sahastra Namavali |

श्री शनैश्चर सहस्रनाम वली | Shani Sahastra Namavali |

श्री शनैश्चर सहस्रनाम वली
| Shani Sahastra Namavali |

॥ श्रीशनैश्चरसहस्रनामावळिः ॥
ॐ अमिताभाषिणे नमः ।
ॐ अघहराय नमः ।
ॐ अशेषदुरितापहाय नमः ।
ॐ अघोररूपाय नमः ।
ॐ अतिदीर्घकायाय नमः ।
ॐ अशेषभयानकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अन्नदात्रे नमः ।
ॐ अश्वत्थमूलजपप्रियाय नमः ।
ॐ अतिसम्पत्प्रदाय नमः ॥ १० ॥
ॐ अमोघाय नमः ।
ॐ अन्यस्तुत्याप्रकोपिताय नमः ।
ॐ अपराजिताय नमः ।
ॐ अद्वितीयाय नमः ।
ॐ अतितेजसे नमः ।
ॐ अभयप्रदाय नमः ।
ॐ अष्टमस्थाय नमः ।
ॐ अञ्जननिभाय नमः ।
ॐ अखिलात्मने नमः ।
ॐ अर्कनन्दनाय नमः ॥ २० ॥

ॐ अतिदारुणाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अप्सरोभिः प्रपूजिताय नमः ।
ॐ अभीष्टफलदाय नमः ।
ॐ अरिष्टमथनाय नमः ।
ॐ अमरपूजिताय नमः ।
ॐ अनुग्राह्याय नमः ।
ॐ अप्रमेयपराक्रमविभीषणाय नमः ।
ॐ असाध्ययोगाय नमः ।
ॐ अखिलदोषघ्नाय नमः ॥ ३० ॥

ॐ अपराकृताय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अतिसुखदाय नमः ।
ॐ अमराधिपपूजिताय नमः ।
ॐ अवलोकात्सर्वनाशाय नमः ।
ॐ अश्वत्थामद्विरायुधाय नमः ।
ॐ अपराधसहिष्णवे नमः ।
ॐ अश्वत्थामसुपूजिताय नमः ।
ॐ अनन्तपुण्यफलदाय नमः ।
ॐ अतृप्ताय नमः ॥ ४० ॥

ॐ अतिबलाय नमः ।
ॐ अवलोकात्सर्ववन्द्याय नमः ।
ॐ अक्षीणकरुणानिधये नमः ।
ॐ अविद्यामूलनाशाय नमः ।
ॐ अक्षय्यफलदायकाय नमः ।
ॐ आनन्दपरिपूर्णाय नमः ।
ॐ आयुष्कारकाय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आधिव्याधिहराय नमः ।
ॐ आनन्दमयाय नमः ॥ ५० ॥

ॐ आनन्दकराय नमः ।
ॐ आयुधधारकाय नमः ।
ॐ आत्मचक्राधिकारिणे नमः ।
ॐ आत्मस्तुत्यपरायणाय नमः ।
ॐ आयुष्कराय नमः ।
ॐ आनुपूर्व्याय नमः ।
ॐ आत्मायत्तजगत्त्रयाय नमः ।
ॐ आत्मनामजपप्रीताय नमः ।
ॐ आत्माधिकफलप्रदाय नमः ।
ॐ आदित्यसंभवाय नमः ॥ ६० ॥

ॐ आर्तिभञ्जनाय नमः ।
ॐ आत्मरक्षकाय नमः ।
ॐ आपद्बान्धवाय नमः ।
ॐ आनन्दरूपाय नमः ।
ॐ आयुःप्रदाय नमः ।
ॐ आकर्णपूर्णचापाय नमः ।
ॐ आत्मोद्दिष्टद्विजप्रदाय नमः ।
ॐ आनुकूल्याय नमः ।
ॐ आत्मरूपप्रतिमादानसुप्रियाय नमः ।
ॐ आत्मारामाय नमः ॥ ७० ॥

ॐ आदिदेवाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ इन्दिरार्चितपादाय नमः ।
ॐ इन्द्रभोगफलप्रदाय नमः ।
ॐ इन्द्रदेवस्वरूपाय नमः ।
ॐ इष्टेष्टवरदायकाय नमः ।
ॐ इष्टापूर्तिप्रदाय नमः ।
ॐ इन्दुमतीष्टवरदायकाय नमः ।
ॐ इन्दिरारमणप्रीताय नमः ।
ॐ इन्द्रवंशनृपार्चिताय नमः ॥ ८० ॥

ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इन्दिरारमणार्चिताय नमः ।
ॐ ईद्रियाय नमः ।
ॐ ईश्वरप्रीताय नमः ।
ॐ ईषणात्रयवर्जिताय नमः ।
ॐ उमास्वरूपाय नमः ।
ॐ उद्बोध्याय नमः ।
ॐ उशनाय नमः ।
ॐ उत्सवप्रियाय नमः ।
ॐ उमादेव्यर्चनप्रीताय नमः ॥ ९० ॥

ॐ उच्चस्थोच्चफलप्रदाय नमः ।
ॐ उरुप्रकाशाय नमः ।
ॐ उच्चस्थयोगदाय नमः ।
ॐ उरुपराक्रमाय नमः ।
ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।
ॐ ऊर्ध्वलोकादिनायकाय नमः ।
ॐ ऊर्जस्विने नमः ।
ॐ ऊनपादाय नमः ।
ॐ ऋकाराक्षरपूजिताय नमः ।
ॐ ऋषिप्रोक्तपुराणज्ञाय नमः ॥ १०० ॥

ॐ ऋषिभिः परिपूजिताय नमः ।
ॐ ऋग्वेदवन्द्याय नमः ।
ॐ ऋग्रूपिणे नमः ।
ॐ ऋजुमार्गप्रवर्तकाय नमः ।
ॐ लुळितोद्धारकाय नमः ।
ॐ लूतभवपाश प्रभञ्जनाय नमः ।
ॐ लूकाररूपकाय नमः ।
ॐ लब्धधर्ममार्गप्रवर्तकाय नमः ।
ॐ एकाधिपत्यसाम्राज्यप्रदाय नमः ।
ॐ एनौघनाशनाय नमः ॥ ११० ॥

ॐ एकपादे नमः ।
ॐ एकस्मै नमः ।
ॐ एकोनविंशतिमासभुक्तिदाय नमः ।
ॐ एकोनविंशतिवर्षदशाय नमः ।
ॐ एणाङ्कपूजिताय नमः ।
ॐ ऐश्वर्यफलदाय नमः ।
ॐ ऐन्द्राय नमः ।
ॐ ऐरावतसुपूजिताय नमः ।
ॐ ओंकारजपसुप्रीताय नमः ।
ॐ ओंकारपरिपूजिताय नमः ॥ १२० ॥

ॐ ओंकारबीजाय नमः ।
ॐ औदार्यहस्ताय नमः ।
ॐ औन्नत्यदायकाय नमः ।
ॐ औदार्यगुणाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औषधकारकाय नमः ।
ॐ करपङ्कजसन्नद्धधनुषे नमः ।
ॐ करुणानिधये नमः ।
ॐ कालाय नमः ।
ॐ कठिनचित्ताय नमः ॥ १३० ॥

ॐ कालमेघसमप्रभाय नमः ।
ॐ किरीटिने नमः ।
ॐ कर्मकृते नमः ।
ॐ कारयित्रे नमः ।
ॐ कालसहोदराय नमः ।
ॐ कालाम्बराय नमः ।
ॐ काकवाहाय नमः ।
ॐ कर्मठाय नमः ।
ॐ काश्यपान्वयाय नमः ।
ॐ कालचक्रप्रभेदिने नमः ॥ १४० ॥

ॐ कालरूपिणे नमः ।
ॐ कारणाय नमः ।
ॐ कारिमूर्तये नमः ।
ॐ कालभर्त्रे नमः ।
ॐ किरीटमकुटोज्ज्वलाय नमः ।
ॐ कार्यकारणकालज्ञाय नमः ।
ॐ काञ्चनाभरथान्विताय नमः ।
ॐ कालदंष्ट्राय नमः ।
ॐ क्रोधरूपाय नमः ।
ॐ कराळिने नमः ॥ १५० ॥

ॐ कृष्णकेतनाय नमः ।
ॐ कालात्मने नमः ।
ॐ कालकर्त्रे नमः ।
ॐ कृतान्ताय नमः ।
ॐ कृष्णगोप्रियाय नमः ।
ॐ कालाग्निरुद्ररूपाय नमः ।
ॐ काश्यपात्मजसम्भवाय नमः ।
ॐ कृष्णवर्णहयाय नमः ।
ॐ कृष्णगोक्षीरसुप्रियाय नमः ।
ॐ कृष्णगोघृतसुप्रीताय नमः ॥ १६० ॥

ॐ कृष्णगोदधिषुप्रियाय नमः ।
ॐ कृष्णगावैकचित्ताय नमः ।
ॐ कृष्णगोदानसुप्रियाय नमः ।
ॐ कृष्णगोदत्तहृदयाय नमः ।
ॐ कृष्णगोरक्षणप्रियाय नमः ।
ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः ।
ॐ कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः ।
ॐ कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः ।
ॐ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदाय नमः ।
ॐ कृष्णगावप्रियाय नमः ॥ १७० ॥

ॐ कपिलापशुषुप्रियाय नमः ।
ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।
ॐ कपिलादानसुप्रीताय नमः ।
ॐ कपिलाज्यहुतप्रियाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कृत्तिकान्तस्थाय नमः ।
ॐ कृष्णगोवत्ससुप्रियाय नमः ।
ॐ कृष्णमाल्याम्बरधराय नमः ।
ॐ कृष्णवर्णतनूरुहाय नमः ।
ॐ कृष्णकेतवे नमः ॥ १८० ॥

ॐ कृशकृष्णदेहाय नमः ।
ॐ कृष्णाम्बरप्रियाय नमः ।
ॐ क्रूरचेष्टाय नमः ।
ॐ क्रूरभावाय नमः ।
ॐ क्रूरदंष्ट्राय नमः ।
ॐ कुरूपिणे नमः ।
ॐ कमलापति संसेव्याय नमः ।
ॐ कमलोद्भवपूजिताय नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ कामधेनु पूजनसुप्रियाय नमः ॥ १९० ॥

ॐ कामधेनुसमाराध्याय नमः ।
ॐ कृपायुषविवर्धनाय नमः ।
ॐ कामधेन्वैकचित्ताय नमः ।
ॐ कृपराज सुपूजिताय नमः ।
ॐ कामदोग्ध्रे नमः ।
ॐ क्रुद्धाय नमः ।
ॐ कुरुवंशसुपूजिताय नमः ।
ॐ कृष्णाङ्गमहिषीदोग्ध्रे नमः ।
ॐ कृष्णेन कृतपूजनाय नमः ।
ॐ कृष्णाङ्गमहिषीदानप्रियाय नमः ॥ २०० ॥

ॐ कोणस्थाय नमः ।
ॐ कृष्णाङ्गमहिषीदानलोलुपाय नमः ।
ॐ कामपूजिताय नमः ।
ॐ क्रूरावलोकनात्सर्वनाशाय नमः ।
ॐ कृष्णाङ्गदप्रियाय नमः ।
ॐ खद्योताय नमः ।
ॐ खण्डनाय नमः ।
ॐ खड्गधराय नमः ।
ॐ खेचरपूजिताय नमः ।
ॐ खरांशुतनयाय नमः ॥ २१० ॥

ॐ खगानां पतिवाहनाय नमः ।
ॐ गोसवासक्तहृदयाय नमः ।
ॐ गोचरस्थानदोषहृते नमः ।
ॐ गृहराश्याधिपाय नमः ।
ॐ गृहराजमहाबलाय नमः ।
ॐ गृध्रवाहाय नमः ।
ॐ गृहपतये नमः ।
ॐ गोचराय नमः ।
ॐ गानलोलुपाय नमः ।
ॐ घोराय नमः ॥ २२० ॥

ॐ घर्माय नमः ।
ॐ घनतमसे नमः ।
ॐ घर्मिणे नमः ।
ॐ घनकृपान्विताय नमः ।
ॐ घननीलाम्बरधराय नमः ।
ॐ ङादिवर्ण सुसंज्ञिताय नमः ।
ॐ चक्रवर्तिसमाराध्याय नमः ।
ॐ चन्द्रमत्यसमर्चिताय नमः ।
ॐ चन्द्रमत्यार्तिहारिणे नमः ।
ॐ चराचरसुखप्रदाय नमः ॥ २३० ॥

ॐ चतुर्भुजाय नमः ।
ॐ चापहस्ताय नमः ।
ॐ चराचरहितप्रदाय नमः ।
ॐ छायापुत्राय नमः ।
ॐ छत्रधराय नमः ।
ॐ छायादेवीसुताय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगन्नीलाय नमः ।
ॐ जपतां सर्वसिद्धिदाय नमः ।
ॐ जपविध्वस्तविमुखाय नमः ॥ २४० ॥

ॐ जम्भारिपरिपूजिताय नमः ।
ॐ जम्भारिवन्द्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगत्त्रयप्रकुपिताय नमः ।
ॐ जगत्त्राणपरायणाय नमः ।
ॐ जयाय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगदानन्दकारकाय नमः ।
ॐ ज्योतिषे नमः ॥ २५० ॥

ॐ ज्योतिषां श्रेष्ठाय नमः ।
ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः ।
ॐ झर्झरीकृतदेहाय नमः ।
ॐ झल्लरीवाद्यसुप्रियाय नमः ।
ॐ ज्ञानमूर्तिये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानमहानिधये नमः ।
ॐ ज्ञानप्रबोधकाय नमः ।
ॐ ज्ञानदृष्ट्यावलोकिताय नमः ॥ २६० ॥

ॐ टङ्किताखिललोकाय नमः ।
ॐ टङ्कितैनस्तमोरवये नमः ।
ॐ टङ्कारकारकाय नमः ।
ॐ टङ्कृताय नमः ।
ॐ टाम्भदप्रियाय नमः ।
ॐ ठकारमय सर्वस्वाय नमः ।
ॐ ठकारकृतपूजिताय नमः ।
ॐ ढक्कावाद्यप्रीतिकराय नमः ।
ॐ डमड्डमरुकप्रियाय नमः ।
ॐ डम्बरप्रभवाय नमः ॥ २७० ॥
ॐ डम्भाय नमः ।
ॐ ढक्कानादप्रियङ्कराय नमः ।
ॐ डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।
ॐ डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः ।
ॐ ढकाररूपाय नमः ।
ॐ ढाम्भीकाय नमः ।
ॐ णकारजपसुप्रियाय नमः ।
ॐ णकारमयमन्त्रार्थाय नमः ।
ॐ णकारैकशिरोमणये नमः ।
ॐ णकारवचनानन्दाय नमः ॥ २८० ॥

ॐ णकारकरुणामयाय नमः ।
ॐ णकारमय सर्वस्वाय नमः ।
ॐ णकारैकपरायणाय नमः ।
ॐ तर्जनीधृतमुद्राय नमः ।
ॐ तपसां फलदायकाय नमः ।
ॐ त्रिविक्रमनुताय नमः ।
ॐ त्रयीमयवपुर्धराय नमः ।
ॐ तपस्विने नमः ।
ॐ तपसा दग्धदेहाय नमः ।
ॐ ताम्राधराय नमः ॥ २९० ॥

ॐ त्रिकालवेदितव्याय नमः ।
ॐ त्रिकालमतितोषिताय नमः ।
ॐ तुलोच्चयाय नमः ।
ॐ त्रासकराय नमः ।
ॐ तिलतैलप्रियाय नमः ।
ॐ तिलान्न सन्तुष्टमनसे नमः ।
ॐ तिलदानप्रियाय नमः ।
ॐ तिलभक्ष्यप्रियाय नमः ।
ॐ तिलचूर्णप्रियाय नमः ।
ॐ तिलखण्डप्रियाय नमः ॥ ३०० ॥

ॐ तिलापूपप्रियाय नमः ।
ॐ तिलहोमप्रियाय नमः ।
ॐ तापत्रयनिवारकाय नमः ।
ॐ तिलतर्पणसन्तुष्टाय नमः ।
ॐ तिलतैलान्नतोषिताय नमः ।
ॐ तिलैकदत्तहृदयाय नमः ।
ॐ तेजस्विने नमः ।
ॐ तेजसान्निधये नमः ।
ॐ तेजसादित्यसङ्काशाय नमः ।
ॐ तेजोमयवपुर्धराय नमः ॥ ३१० ॥

ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ॥ ३२० ॥

ॐ तिलदीपप्रियाय नमः ।
ॐ तस्यपीडानिवारकाय नमः ।
ॐ तिलोत्तमामेनकादिनर्तनप्रियाय नमः ।
ॐ त्रिभागमष्टवर्गाय नमः ।
ॐ स्थूलरोम्णे नमः ।
ॐ स्थिराय नमः ।
ॐ स्थिताय नमः ।
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः ।
ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः ॥ ३३० ॥

ॐ दशरथार्चितपादाय नमः ।
ॐ दशरथस्तोत्रतोषिताय नमः ।
ॐ दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः ।
ॐ दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।
ॐ दशरथस्वात्मदर्शिने नमः ।
ॐ दशरथाभीष्टदायकाय नमः ।
ॐ दोर्भिर्धनुर्धराय नमः ।
ॐ दीर्घश्मश्रुजटाधराय नमः ।
ॐ दशरथस्तोत्रवरदाय नमः ।
ॐ दशरथाभीप्सितप्रदाय नमः ॥ ३४० ॥

ॐ दशरथस्तोत्रसन्तुष्टाय नमः ।
ॐ दशरथेन सुपूजिताय नमः ।
ॐ द्वादशाष्टमजन्मस्थाय नमः ।
ॐ देवपुङ्गवपूजिताय नमः ।
ॐ देवदानवदर्पघ्नाय नमः ।
ॐ दिनं प्रतिमुनिस्तुताय नमः ।
ॐ द्वादशस्थाय नमः ।
ॐ द्वादशात्मसुताय नमः ।
ॐ द्वादशनामभृते नमः ।
ॐ द्वितीयस्थाय नमः ॥ ३५० ॥

ॐ द्वादशार्कसूनवे नमः ।
ॐ दैवज्ञपूजिताय नमः ।
ॐ दैवज्ञचित्तवासिने नमः ।
ॐ दमयन्त्यासुपूजिताय नमः ।
ॐ द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ दुराराध्याय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दमयन्तीवरप्रदाय नमः ।
ॐ दुष्टदूराय नमः ॥ ३६० ॥

ॐ दुराचारशमनाय नमः ।
ॐ दोषवर्जिताय नमः ।
ॐ दुःसहाय नमः ।
ॐ दोषहन्त्रे नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दुःखप्रदाय नमः ।
ॐ दुःखहन्त्रे नमः ।
ॐ दीप्तरञ्जितदिङ्मुखाय नमः ।
ॐ दीप्यमान मुखाम्भोजाय नमः ॥ ३७० ॥

ॐ दमयन्त्याःशिवप्रदाय नमः ।
ॐ दुर्निरीक्ष्याय नमः ।
ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।
ॐ द्विजदानैकनिरताय नमः ।
ॐ द्विजाराधनतत्पराय नमः ।
ॐ द्विजसर्वार्तिहारिणे नमः ।
ॐ द्विजराज समर्चिताय नमः ।
ॐ द्विजदानैकचित्ताय नमः ।
ॐ द्विजराज प्रियङ्कराय नमः ।
ॐ द्विजाय नमः ॥ ३८० ॥

ॐ द्विजप्रियाय नमः ।
ॐ द्विजराजेष्टदायकाय नमः ।
ॐ द्विजरूपाय नमः ।
ॐ द्विजश्रेष्ठाय नमः ।
ॐ दोषदाय नमः ।
ॐ दुःसहाय नमः ।
ॐ देवादिदेवाय नमः ।
ॐ देवेशाय नमः ।
ॐ देवराज सुपूजिताय नमः ।
ॐ देवराजेष्टवरदाय नमः ॥ ३९० ॥

ॐ देवराज प्रियङ्कराय नमः ।
ॐ देवादिवन्दिताय नमः ।
ॐ दिव्यतनवे नमः ।
ॐ देवशिखामणये नमः ।
ॐ देवगानप्रियाय नमः ।
ॐ देवदेशिकपुङ्गवाय नमः ।
ॐ द्विजात्मजासमाराध्याय नमः ।
ॐ ध्येयाय नमः ।
ॐ धर्मिणे नमः ।
ॐ धनुर्धराय नमः ॥ ४०० ॥

ॐ धनुष्मते नमः ।
ॐ धनदात्रे नमः ।
ॐ धर्माधर्मविवर्जिताय नमः ।
ॐ धर्मरूपाय नमः ।
ॐ धनुर्दिव्याय नमः ।
ॐ धर्मशास्त्रात्मचेतनाय नमः ।
ॐ धर्मराज प्रियकराय नमः ।
ॐ धर्मराज सुपूजिताय नमः ।
ॐ धर्मराजेष्टवरदाय नमः ।
ॐ धर्माभीष्टफलप्रदाय नमः ॥ ४१० ॥

ॐ नित्यतृप्तस्वभावाय नमः ।
ॐ नित्यकर्मरताय नमः ।
ॐ निजपीडार्तिहारिणे नमः ।
ॐ निजभक्तेष्टदायकाय नमः ।
ॐ निर्मासदेहाय नमः ।
ॐ नीलाय नमः ।
ॐ निजस्तोत्रबहुप्रियाय नमः ।
ॐ नळस्तोत्रप्रियाय नमः ।
ॐ नळराजसुपूजिताय नमः ।
ॐ नक्षत्रमण्डलगताय नमः ॥ ४२० ॥

ॐ नमतांप्रियकारकाय नमः ।
ॐ नित्यार्चितपदाम्भोजाय नमः ।
ॐ निजाज्ञापरिपालकाय नमः ।
ॐ नवग्रहवराय नमः ।
ॐ नीलवपुषे नमः ।
ॐ नळकरार्चिताय नमः ।
ॐ नळप्रियानन्दिताय नमः ।
ॐ नळक्षेत्रनिवासकाय नमः ।
ॐ नळपाकप्रियाय नमः ।
ॐ नळपद्भञ्जनक्षमाय नमः ॥ ४३० ॥

ॐ नळसर्वार्तिहारिणे नमः ।
ॐ नळेनात्मार्थपूजिताय नमः ।
ॐ निपाटवीनिवासाय नमः ।
ॐ नळाभीष्टवरप्रदाय नमः ।
ॐ नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।
ॐ नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः ।
ॐ नक्षत्रराश्यधिपाय नमः ।
ॐ नीलध्वजविराजिताय नमः ।
ॐ नित्ययोगरताय नमः ।
ॐ नवरत्नविभूषिताय नमः ॥ ४४० ॥

ॐ नवधाभज्यदेहाय नमः ।
ॐ नवीकृतजगत्त्रयाय नमः ।
ॐ नवग्रहाधिपाय नमः ।
ॐ नवाक्षरजपप्रियाय नमः ।
ॐ नवात्मने नमः ।
ॐ नवचक्रात्मने नमः ।
ॐ नवतत्त्वाधिपाय नमः ।
ॐ नवोदन प्रियाय नमः ।
ॐ नवधान्यप्रियाय नमः ।
ॐ निष्कण्टकाय नमः ॥ ४५० ॥

ॐ निस्पृहाय नमः ।
ॐ निरपेक्षाय नमः ।
ॐ निरामयाय नमः ।
ॐ नागराजार्चितपदाय नमः ।
ॐ नागराजप्रियङ्कराय नमः ।
ॐ नागराजेष्टवरदाय नमः ।
ॐ नागाभरणभूषिताय नमः ।
ॐ नागेन्द्रगान निरताय नमः ।
ॐ नानाभरणभूषिताय नमः ।
ॐ नवमित्रस्वरूपाय नमः ॥ ४६० ॥

ॐ नानाश्चर्यविधायकाय नमः ।
ॐ नानाद्वीपाधिकर्त्रे नमः ।
ॐ नानालिपिसमावृताय नमः ।
ॐ नानारूपजगत्स्रष्ट्रे नमः ।
ॐ नानारूपजनाश्रयाय नमः ।
ॐ नानालोकाधिपाय नमः ।
ॐ नानाभाषाप्रियाय नमः ।
ॐ नानारूपाधिकारिणे नमः ।
ॐ नवरत्नप्रियाय नमः ।
ॐ नानाविचित्रवेषाढ्याय नमः ॥ ४७० ॥

ॐ नानाचित्रविधायकाय नमः ।
ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ नीलमेघसमप्रभाय नमः ।
ॐ नीलाञ्जनचयप्रख्याय नमः ।
ॐ नीलवस्त्रधरप्रियाय नमः ।
ॐ नीचभाषाप्रचारज्ञाय नमः ।
ॐ नीचे स्वल्पफलप्रदाय नमः ।
ॐ नानागम विधानज्ञाय नमः ।
ॐ नानानृपसमावृताय नमः ।
ॐ नानावर्णाकृतये नमः ॥ ४८० ॥

ॐ नानावर्णस्वरार्तवाय नमः ।
ॐ नागलोकान्तवासिने नमः ।
ॐ नक्षत्रत्रयसंयुताय नमः ।
ॐ नभादिलोकसम्भूताय नमः ।
ॐ नामस्तोत्रबहुप्रियाय नमः ।
ॐ नामपारायणप्रीताय नमः ।
ॐ नामार्चनवरप्रदाय नमः ।
ॐ नामस्तोत्रैकचित्ताय नमः ।
ॐ नानारोगार्तिभञ्जनाय नमः ।
ॐ नवग्रहसमाराध्याय नमः ॥ ४९० ॥

ॐ नवग्रहभयापहाय नमः ।
ॐ नवग्रहसुसम्पूज्याय नमः ।
ॐ नानावेदसुरक्षकाय नमः ।
ॐ नवग्रहाधिराजाय नमः ।
ॐ नवग्रहजपप्रियाय नमः ।
ॐ नवग्रहमयज्योतिषे नमः ।
ॐ नवग्रहवरप्रदाय नमः ।
ॐ नवग्रहाणामधिपाय नमः ।
ॐ नवग्रह सुपीडिताय नमः ।
ॐ नवग्रहाधीश्वराय नमः ॥ ५०० ॥

ॐ नवमाणिक्यशोभिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परमैश्वर्यकारणाय नमः ।
ॐ प्रपन्नभयहारिणे नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ प्रासहस्ताय नमः ।
ॐ पङ्गुपादाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः ॥ ५१० ॥

ॐ पावनाय नमः ।
ॐ परिशुद्धात्मने नमः ।
ॐ पुत्रपौत्रप्रवर्धनाय नमः ।
ॐ प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रसन्नेक्षणाय नमः ।
ॐ प्रजापत्याय नमः ।
ॐ प्रियकराय नमः ।
ॐ प्रणतेप्सितराज्यदाय नमः ।
ॐ प्रजानां जीवहेतवे नमः ।
ॐ प्राणिनां परिपालकाय नमः ॥ ५२० ॥
ॐ प्राणरूपिणे नमः ।
ॐ प्राणधारिणे नमः ।
ॐ प्रजानां हितकारकाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ प्रशान्ताय नमः ।
ॐ प्रज्ञावते नमः ।
ॐ प्रजारक्षणदीक्षिताय नमः ।
ॐ प्रावृषेण्याय नमः ।
ॐ प्राणकारिणे नमः ।
ॐ प्रसन्नोत्सववन्दिताय नमः ॥ ५३० ॥

ॐ प्रज्ञानिवासहेतवे नमः ।
ॐ पुरुषार्थैकसाधनाय नमः ।
ॐ प्रजाकराय नमः ।
ॐ प्रातिकूल्याय नमः ।
ॐ पिङ्गळाक्षाय नमः ।
ॐ प्रसन्नधिये नमः ।
ॐ प्रपञ्चात्मने नमः ।
ॐ प्रसवित्रे नमः ।
ॐ पुराणपुरुषोत्तमाय नमः ।
ॐ पुराणपुरुषाय नमः ॥ ५४० ॥

ॐ पुरुहूताय नमः ।
ॐ प्रपञ्चधृते नमः ।
ॐ प्रतिष्ठिताय नमः ।
ॐ प्रीतिकराय नमः ।
ॐ प्रियकारिणे नमः ।
ॐ प्रयोजनाय नमः ।
ॐ प्रीतिमते नमः ।
ॐ प्रवरस्तुत्याय नमः ।
ॐ पुरूरवसमर्चिताय नमः ।
ॐ प्रपञ्चकारिणे नमः ॥ ५५० ॥

ॐ पुण्याय नमः ।
ॐ पुरुहूत समर्चिताय नमः ।
ॐ पाण्डवादि सुसंसेव्याय नमः ।
ॐ प्रणवाय नमः ।
ॐ पुरुषार्थदाय नमः ।
ॐ पयोदसमवर्णाय नमः ।
ॐ पाण्डुपुत्रार्तिभञ्जनाय नमः ।
ॐ पाण्डुपुत्रेष्टदात्रे नमः ।
ॐ पाण्डवानां हितङ्कराय नमः ।
ॐ पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदाय नमः ॥ ५६० ॥

ॐ पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकाय नमः ।
ॐ पाण्डुपुत्राद्यर्चिताय नमः ।
ॐ पूर्वजाय नमः ।
ॐ प्रपञ्चभृते नमः ।
ॐ परचक्रप्रभेदिने नमः ।
ॐ पाण्डवेषु वरप्रदाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ पराज्ञापरिवर्जिताय नमः ।
ॐ परात्पराय नमः ।
ॐ पाशहन्त्रे नमः ॥ ५७० ॥

ॐ परमाणवे नमः ।
ॐ प्रपञ्चकृते नमः ।
ॐ पातङ्गिने नमः ।
ॐ पुरुषाकाराय नमः ।
ॐ परशम्भुसमुद्भवाय नमः ।
ॐ प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रपञ्चोद्भवसम्भवाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ परमोदाराय नमः ।
ॐ पराहङ्कारभञ्जनाय नमः ॥ ५८० ॥

ॐ पराय नमः ।
ॐ परमकारुण्याय नमः ।
ॐ परब्रह्ममयाय नमः ।
ॐ प्रपन्नभयहारिणे नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ प्रसादकृते नमः ।
ॐ प्रपञ्चाय नमः ।
ॐ पराशक्ति समुद्भवाय नमः ।
ॐ प्रदानपावनाय नमः ।
ॐ प्रशान्तात्मने नमः ॥ ५९० ॥

ॐ प्रभाकराय नमः ।
ॐ प्रपञ्चात्मने नमः ।
ॐ प्रपञ्चोपशमनाय नमः ।
ॐ पृथिवीपतये नमः ।
ॐ परशुराम समाराध्याय नमः ।
ॐ परशुरामवरप्रदाय नमः ।
ॐ परशुराम चिरञ्जीविप्रदाय नमः ।
ॐ परमपावनाय नमः ।
ॐ परमहंसस्वरूपाय नमः ।
ॐ परमहंससुपूजिताय नमः ॥ ६०० ॥

ॐ पञ्चनक्षत्राधिपाय नमः ।
ॐ पञ्चनक्षत्रसेविताय नमः ।
ॐ प्रपञ्चरक्षित्रे नमः ।
ॐ प्रपञ्चस्यभयङ्कराय नमः ।
ॐ फलदानप्रियाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फलप्रदाय नमः ।
ॐ फलाभिषेकप्रियाय नमः ।
ॐ फल्गुनस्य वरप्रदाय नमः ।
ॐ फुटच्छमितपापौघाय नमः ॥ ६१० ॥

ॐ फल्गुनेन प्रपूजिताय नमः ।
ॐ फणिराजप्रियाय नमः ।
ॐ फुल्लाम्बुज विलोचनाय नमः ।
ॐ बलिप्रियाय नमः ।
ॐ बलिने नमः ।
ॐ बभ्रुवे नमः ।
ॐ ब्रह्मविष्ण्वीशक्लेशकृते नमः ।
ॐ ब्रह्मविष्ण्वीशरूपाय नमः ।
ॐ ब्रह्मशक्रादिदुर्लभाय नमः ।
ॐ बासदर्ष्ट्या प्रमेयाङ्गाय नमः ॥ ६२० ॥

ॐ बिभ्रत्कवचकुण्डलाय नमः ।
ॐ बहुश्रुताय नमः ।
ॐ बहुमतये नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बहुरूपाय नमः ।
ॐ बहुप्रदाय नमः ।
ॐ बालार्कद्युतिमते नमः ॥ ६३० ॥

ॐ बालाय नमः ।
ॐ बृहद्वक्षसे नमः ।
ॐ बृहत्तनवे नमः ।
ॐ ब्रह्माण्डभेदकृते नमः ।
ॐ भक्तसर्वार्थसाधकाय नमः ।
ॐ भव्याय नमः ।
ॐ भोक्त्रे नमः ।
ॐ भीतिकृते नमः ।
ॐ भक्तानुग्रहकारकाय नमः ।
ॐ भीषणाय नमः ॥ ६४० ॥

ॐ भैक्षकारिणे नमः ।
ॐ भूसुरादि सुपूजिताय नमः ।
ॐ भोगभाग्यप्रदाय नमः ।
ॐ भस्मीकृतजगत्त्रयाय नमः ।
ॐ भयानकाय नमः ।
ॐ भानुसूनवे नमः ।
ॐ भूतिभूषितविग्रहाय नमः ।
ॐ भास्वद्रताय नमः ।
ॐ भक्तिमतां सुलभाय नमः ।
ॐ भ्रुकुटीमुखाय नमः ॥ ६५० ॥

ॐ भवभूतगणैःस्तुत्याय नमः ।
ॐ भूतसंघसमावृताय नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भगवते नमः ।
ॐ भीमाय नमः ।
ॐ भक्ताभीष्टवरप्रदाय नमः ।
ॐ भवभक्तैकचित्ताय नमः ।
ॐ भक्तिगीतस्तवोन्मुखाय नमः ।
ॐ भूतसन्तोषकारिणे नमः ।
ॐ भक्तानां चित्तशोधनाय नमः ॥ ६६० ॥

ॐ भक्तिगम्याय नमः ।
ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः ।
ॐ भक्तसुप्रियाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः ।
ॐ भोज्याय नमः ।
ॐ भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ मन्दाय नमः ॥ ६७० ॥

ॐ मन्दगतये नमः ।
ॐ मासमेवप्रपूजिताय नमः ।
ॐ मुचुकुन्दसमाराध्याय नमः ।
ॐ मुचुकुन्दवरप्रदाय नमः ।
ॐ मुचुकुन्दार्चितपदाय नमः ।
ॐ महारूपाय नमः ।
ॐ महायशसे नमः ।
ॐ महाभोगिने नमः ।
ॐ महायोगिने नमः ।
ॐ महाकायाय नमः ॥ ६८० ॥

ॐ महाप्रभवे नमः ।
ॐ महेशाय नमः ।
ॐ महदैश्वर्याय नमः ।
ॐ मन्दारकुसुमप्रियाय नमः ।
ॐ महाक्रतवे नमः ।
ॐ महामानिने नमः ।
ॐ महाधीराय नमः ।
ॐ महाजयाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशान्ताय नमः ॥ ६९० ॥

ॐ मण्डलस्थाय नमः ।
ॐ महाद्युतये नमः ।
ॐ महासुताय नमः ।
ॐ महोदाराय नमः ।
ॐ महनीयाय नमः ।
ॐ महोदयाय नमः ।
ॐ मैथिलीवरदायिने नमः ।
ॐ मार्ताण्डस्यद्वितीयजाय नमः ।
ॐ मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते नमः ।
ॐ मरामरहराराध्याय नमः ॥ ७०० ॥

ॐ महेन्द्रादि सुरार्चिताय नमः ।
ॐ महारथाय नमः ।
ॐ महावेगाय नमः ।
ॐ मणिरत्नविभूषिताय नमः ।
ॐ मेषनीचाय नमः ।
ॐ महाघोराय नमः ।
ॐ महासौरये नमः ।
ॐ मनुप्रियाय नमः ।
ॐ महादीर्घाय नमः ।
ॐ महाग्रासाय नमः ॥ ७१० ॥

ॐ महदैश्वर्यदायकाय नमः ।
ॐ महाशुष्काय नमः ।
ॐ महारौद्राय नमः ।
ॐ मुक्तिमार्गप्रदर्शकाय नमः ।
ॐ मकरकुम्भाधिपाय नमः ।
ॐ मृकण्डुतनयार्चिताय नमः ।
ॐ मन्त्राधिष्ठानरूपाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः ।
ॐ महामन्त्रस्वरूपाय नमः ।
ॐ महायन्त्रस्थिताय नमः ॥ ७२० ॥

ॐ महाप्रकाशदिव्यात्मने नमः ।
ॐ महादेवप्रियाय नमः ।
ॐ महाबलि समाराध्याय नमः ।
ॐ महर्षिगणपूजिताय नमः ।
ॐ मन्दचारिणे नमः ।
ॐ महामायिने नमः ।
ॐ माषदानप्रियाय नमः ।
ॐ माषोदन प्रीतचित्ताय नमः ।
ॐ महाशक्तये नमः ।
ॐ महागुणाय नमः ॥ ७३० ॥

ॐ यशस्कराय नमः ।
ॐ योगदात्रे नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ युगन्धराय नमः ।
ॐ योगिने नमः ।
ॐ योग्याय नमः ।
ॐ याम्याय नमः ।
ॐ योगरूपिणे नमः ।
ॐ युगाधिपाय नमः ।
ॐ यज्ञभृते नमः ॥ ७४० ॥

ॐ यजमानाय नमः ।
ॐ योगाय नमः ।
ॐ योगविदां वराय नमः ।
ॐ यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः ।
ॐ यमप्रत्यधिदेवाय नमः ।
ॐ युगपद्भोगदायकाय नमः ।
ॐ योगप्रियाय नमः ।
ॐ योगयुक्ताय नमः ।
ॐ यज्ञरूपाय नमः ।
ॐ युगान्तकृते नमः ॥ ७५० ॥

ॐ रघुवंशसमाराध्याय नमः ।
ॐ रौद्राय नमः ।
ॐ रौद्राकृतये नमः ।
ॐ रघुनन्दन सल्लापाय नमः ।
ॐ रघुप्रोक्त जपप्रियाय नमः ।
ॐ रौद्ररूपिणे नमः ।
ॐ रथारूढाय नमः ।
ॐ राघवेष्ट वरप्रदाय नमः ।
ॐ रथिने नमः ।
ॐ रौद्राधिकारिणे नमः ॥ ७६० ॥

ॐ राघवेण समर्चिताय नमः ।
ॐ रोषात्सर्वस्वहारिणे नमः ।
ॐ राघवेण सुपूजिताय नमः ।
ॐ राशिद्वयाधिपाय नमः ।
ॐ रघुभिः परिपूजिताय नमः ।
ॐ राज्यभूपाकराय नमः ।
ॐ राजराजेन्द्रवन्दिताय नमः ।
ॐ रत्नकेयूरभूषाढ्याय नमः ।
ॐ रमानन्दनवन्दिताय नमः ।
ॐ रघुपौरुषसन्तुष्टाय नमः ॥ ७७० ॥

ॐ रघुस्तोत्रबहुप्रियाय नमः ।
ॐ रघुवंशनृपैःपूज्याय नमः ।
ॐ रणन्मञ्जीरनूपुराय नमः ।
ॐ रविनन्दनाय नमः ।
ॐ राजेन्द्राय नमः ।
ॐ रघुवंशप्रियाय नमः ।
ॐ लोहजप्रतिमादानप्रियाय नमः ।
ॐ लावण्यविग्रहाय नमः ।
ॐ लोकचूडामणये नमः ।
ॐ लक्ष्मीवाणीस्तुतिप्रियाय नमः ॥ ७८० ॥

ॐ लोकरक्षाय नमः ।
ॐ लोकशिक्षाय नमः ।
ॐ लोकलोचनरञ्जिताय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ लोकवन्द्याय नमः ।
ॐ लक्ष्मणाग्रजपूजिताय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ वज्रदेहाय नमः ।
ॐ वज्राङ्कुशधराय नमः ।
ॐ विश्ववन्द्याय नमः ॥ ७९० ॥

ॐ विरूपाक्षाय नमः ।
ॐ विमलाङ्गविराजिताय नमः ।
ॐ विश्वस्थाय नमः ।
ॐ वायसारूढाय नमः ।
ॐ विशेषसुखकारकाय नमः ।
ॐ विश्वरूपिणे नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विभावसु सुताय नमः ।
ॐ विप्रप्रियाय नमः ।
ॐ विप्ररूपाय नमः ॥ ८०० ॥

ॐ विप्राराधन तत्पराय नमः ।
ॐ विशालनेत्राय नमः ।
ॐ विशिखाय नमः ।
ॐ विप्रदानबहुप्रियाय नमः ।
ॐ विश्वसृष्टि समुद्भूताय नमः ।
ॐ वैश्वानरसमद्युतये नमः ।
ॐ विष्णवे नमः ।
ॐ विरिञ्चये नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वकर्त्रे नमः ॥ ८१० ॥

ॐ विशाम्पतये नमः ।
ॐ विराडाधारचक्रस्थाय नमः ।
ॐ विश्वभुजे नमः ।
ॐ विश्वभावनाय नमः ।
ॐ विश्वव्यापारहेतवे नमः ।
ॐ वक्रक्रूरविवर्जिताय नमः ।
ॐ विश्वोद्भवाय नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ विश्वसृष्टि विनायकाय नमः ।
ॐ विश्वमूलनिवासिने नमः ॥ ८२० ॥

ॐ विश्वचित्रविधायकाय नमः ।
ॐ विश्वाधारविलासिने नमः ।
ॐ व्यासेन कृतपूजिताय नमः ।
ॐ विभीषणेष्टवरदाय नमः ।
ॐ वाञ्छितार्थप्रदायकाय नमः ।
ॐ विभीषणसमाराध्याय नमः ।
ॐ विशेषसुखदायकाय नमः ।
ॐ विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।
ॐ वासवात्मजसुप्रीताय नमः ।
ॐ वसुदाय नमः ॥ ८३० ॥

ॐ वासवार्चिताय नमः ।
ॐ विश्वत्राणैकनिरताय नमः ।
ॐ वाङ्मनोतीतविग्रहाय नमः ।
ॐ विराण्मन्दिरमूलस्थाय नमः ।
ॐ वलीमुखसुखप्रदाय नमः ।
ॐ विपाशाय नमः ।
ॐ विगतातङ्काय नमः ।
ॐ विकल्पपरिवर्जिताय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः ॥ ८४० ॥

ॐ वन्द्याय नमः ।
ॐ विचित्राङ्गाय नमः ।
ॐ विरोचनाय नमः ।
ॐ शुष्कोदराय नमः ।
ॐ शुक्लवपुषे नमः ।
ॐ शान्तरूपिणे नमः ।
ॐ शनैश्चराय नमः ।
ॐ शूलिने नमः ।
ॐ शरण्याय नमः ।
ॐ शान्ताय नमः ॥ ८५० ॥

ॐ शिवायामप्रियङ्कराय नमः ।
ॐ शिवभक्तिमतां श्रेष्ठाय नमः ।
ॐ शूलपाणये नमः ।
ॐ शुचिप्रियाय नमः ।
ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
ॐ श्रुतिजालप्रबोधकाय नमः ।
ॐ श्रुतिपारगसम्पूज्याय नमः ।
ॐ श्रुतिश्रवणलोलुपाय नमः ।
ॐ श्रुत्यन्तर्गतमर्मज्ञाय नमः ।
ॐ श्रुत्येष्टवरदायकाय नमः ॥ ८६० ॥

ॐ श्रुतिरूपाय नमः ।
ॐ श्रुतिप्रीताय नमः ।
ॐ श्रुतीप्सितफलप्रदाय नमः ।
ॐ शुचिश्रुताय नमः ।
ॐ शान्तमूर्तये नमः ।
ॐ श्रुतिश्रवणकीर्तनाय नमः ।
ॐ शमीमूलनिवासिने नमः ।
ॐ शमीकृतफलप्रदाय नमः ।
ॐ शमीकृतमहाघोराय नमः ।
ॐ शरणागतवत्सलाय नमः ॥ ८७० ॥

ॐ शमीतरुस्वरूपाय नमः ।
ॐ शिवमन्त्रज्ञमुक्तिदाय नमः ।
ॐ शिवागमैकनिलयाय नमः ।
ॐ शिवमन्त्रजपप्रियाय नमः ।
ॐ शमीपत्रप्रियाय नमः ।
ॐ शमीपर्णसमर्चिताय नमः ।
ॐ शतोपनिषदस्तुत्याय नमः ।
ॐ शान्त्यादिगुणभूषिताय नमः ।
ॐ शान्त्यादिषड्गुणोपेताय नमः ।
ॐ शङ्खवाद्यप्रियाय नमः ॥ ८८० ॥

ॐ श्यामरक्तसितज्योतिषे नमः ।
ॐ शुद्धपञ्चाक्षरप्रियाय नमः ।
ॐ श्रीहालास्यक्षेत्रवासिने नमः ।
ॐ श्रीमते नमः ।
ॐ शक्तिधराय नमः ।
ॐ षोडशद्वयसम्पूर्णलक्षणाय नमः ।
ॐ षण्मुखप्रियाय नमः ।
ॐ षड्गुणैश्वर्यसंयुक्ताय नमः ।
ॐ षडङ्गावरणोज्ज्वलाय नमः ।
ॐ षडक्षरस्वरूपाय नमः ॥ ८९० ॥

ॐ षट्चक्रोपरि संस्थिताय नमः ।
ॐ षोडशिने नमः ।
ॐ षोडशान्ताय नमः ।
ॐ षट्शक्तिव्यक्तमूर्तिमते नमः ।
ॐ षड्भावरहिताय नमः ।
ॐ षडङ्गश्रुतिपारगाय नमः ।
ॐ षट्कोणमध्यनिलयाय नमः ।
ॐ षट्शास्त्रस्मृतिपारगाय नमः ।
ॐ स्वर्णेन्द्रनीलमकुटाय नमः ।
ॐ सर्वाभीष्टप्रदायकाय नमः ॥ ९०० ॥

ॐ सर्वात्मने नमः ।
ॐ सर्वदोषघ्नाय नमः ।
ॐ सर्वगर्वप्रभञ्जनाय नमः ।
ॐ समस्तलोकाभयदाय नमः ।
ॐ सर्वदोषाङ्गनाशकाय नमः ।
ॐ समस्तभक्तसुखदाय नमः ।
ॐ सर्वदोषनिवर्तकाय नमः ।
ॐ सर्वनाशक्षमाय नमः ।
ॐ सौम्याय नमः ।
ॐ सर्वक्लेशनिवारकाय नमः ॥ ९१० ॥

ॐ सर्वात्मने नमः ।
ॐ सर्वदातुष्टाय नमः ।
ॐ सर्वपीडानिवारकाय नमः ।
ॐ सर्वरूपिणे नमः ।
ॐ सर्वकर्मणे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वकारकाय नमः ।
ॐ सुकृते नमः ।
ॐ सुलभाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ॥ ९२० ॥

ॐ सूर्यात्मजाय नमः ।
ॐ सदातुष्टाय नमः ।
ॐ सूर्यवंशप्रदीपनाय नमः ।
ॐ सप्तद्वीपाधिपाय नमः ।
ॐ सुरासुरभयङ्कराय नमः ।
ॐ सर्वसंक्षोभहारिणे नमः ।
ॐ सर्वलोकहितङ्कराय नमः ।
ॐ सर्वौदार्यस्वभावाय नमः ।
ॐ सन्तोषात्सकलेष्टदाय नमः ।
ॐ समस्तऋषिभिःस्तुत्याय नमः ॥ ९३० ॥

ॐ समस्तगणपावृताय नमः ।
ॐ समस्तगणसंसेव्याय नमः ।
ॐ सर्वारिष्टविनाशनाय नमः ।
ॐ सर्वसौख्यप्रदात्रे नमः ।
ॐ सर्वव्याकुलनाशनाय नमः ।
ॐ सर्वसंक्षोभहारिणे नमः ।
ॐ सर्वारिष्टफलप्रदाय नमः ।
ॐ सर्वव्याधिप्रशमनाय नमः ।
ॐ सर्वमृत्युनिवारकाय नमः ।
ॐ सर्वानुकूलकारिणे नमः ॥ ९४० ॥

ॐ सौन्दर्यमृदुभाषिताय नमः ।
ॐ सौराष्ट्रदेशोद्भवाय नमः ।
ॐ स्वक्षेत्रेष्टवरप्रदाय नमः ।
ॐ सोमयाजि समाराध्याय नमः ।
ॐ सीताभीष्टवरप्रदाय नमः ।
ॐ सुखासनोपविष्टाय नमः ।
ॐ सद्यःपीडानिवारकाय नमः ।
ॐ सौदामनीसन्निभाय नमः ।
ॐ सर्वानुल्लङ्घ्यशासनाय नमः ।
ॐ सूर्यमण्डलसञ्चारिणे नमः ॥ ९५० ॥

ॐ संहारास्त्रनियोजिताय नमः ।
ॐ सर्वलोकक्षयकराय नमः ।
ॐ सर्वारिष्टविधायकाय नमः ।
ॐ सर्वव्याकुलकारिणे नमः ।
ॐ सहस्रजपसुप्रियाय नमः ।
ॐ सुखासनोपविष्टाय नमः ।
ॐ संहारास्त्रप्रदर्शिताय नमः ।
ॐ सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः ।
ॐ सुप्रसन्नाय नमः ।
ॐ सुरश्रेष्ठाय नमः ॥ ९६० ॥

ॐ सुघोषाय नमः ।
ॐ सुखदाय नमः ।
ॐ सुहृदे नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदाय नमः ।
ॐ सुखिने नमः ।
ॐ सुग्रीवाय नमः ।
ॐ सुधृतये नमः ॥ ९७० ॥

ॐ साराय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ सुवीराय नमः ।
ॐ सुजनाश्रयाय नमः ।
ॐ हरिश्चन्द्रसमाराध्याय नमः ।
ॐ हेयोपादेयवर्जिताय नमः ।
ॐ हरिश्चन्द्रेष्टवरदाय नमः ॥ ९८० ॥

ॐ हंसमन्त्रादि संस्तुताय नमः ।
ॐ हंसवाह समाराध्याय नमः ।
ॐ हंसवाहवरप्रदाय नमः ।
ॐ हृद्याय नमः ।
ॐ हृष्टाय नमः ।
ॐ हरिसखाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ हविषे नमः ।
ॐ हिरण्यवर्णाय नमः ॥ ९९० ॥

ॐ हितकृते नमः ।
ॐ हर्षदाय नमः ।
ॐ हेमभूषणाय नमः ।
ॐ हविर्होत्रे नमः ।
ॐ हंसगतये नमः ।
ॐ हंसमन्त्रादिसंस्तुताय नमः ।
ॐ हनूमदर्चितपदाय नमः ।
ॐ हलधृत्पूजिताय नमः ।
ॐ क्षेमदाय नमः ।
ॐ क्षेमकृते नमः ॥ १००० ॥

ॐ क्षेम्याय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षामवर्जिताय नमः ।
ॐ क्षुद्रघ्नाय नमः ।
ॐ क्षान्तिदाय नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षितिभूषाय नमः ।
ॐ क्षमाश्रयाय नमः ।
ॐ क्षमाधराय नमः ।
ॐ क्षयद्वाराय नमः ॥ १०१० ॥
॥ इति श्री शनैश्चरसहस्रनामावळिः सम्पूर्णम् ॥






Youtube Video



और भी ऐसे ही मधुर भजनों की लिरिक्स के लिए हमारी वेबसाइट को विजिट करते रहे|
इस भजन को आप अपने मित्रगणों के साथ शेयर करिए|
यदि आप भी हमें कोई भजन या अन्य उपयोगी सामग्री भेजना चाहे नीचे दिए गए बटन का प्रयोग करे|
|| आप को मारवाड़ी भजन डॉट कॉम की और से सादर जय सियाराम ||


via Blogger https://ift.tt/WfSJMN7
July 05, 2022 at 08:38PM
Blogger द्वारा संचालित.